Rigveda Suktaऋग्वेद सूक्तRigveda Sukta

Rigveda Mandala 9 Sukta 86ऋग्वेद मण्डल 9 सूक्त 86Rigveda Mandala 9 Sukta 86

Reading Guideपाठ मार्गदर्शिकाReading Guide

About RV 9.86RV 9.86 के बारे मेंRV 9.86 ke Baare Mein

This Sukta has 48 mantras. The imported record currently lists | translator = as Rishi and ऋ. १-१० अकृष्टा माषाः, ११-२० सिकता निवावरी, २१-३० पृश्नियोऽजाः, ३१-४० अकृष्टमाषादयस्त्रयः, ४१-४५ भौमोऽत्रिः, ४६-४८ गृत्समदः शौनकः as Devata. Sanskrit source text and imported metadata remain separate from any editorial study layer.इस सूक्त में 48 मंत्र हैं। आयातित रिकॉर्ड में ऋषि | translator = और देवता ऋ. १-१० अकृष्टा माषाः, ११-२० सिकता निवावरी, २१-३० पृश्नियोऽजाः, ३१-४० अकृष्टमाषादयस्त्रयः, ४१-४५ भौमोऽत्रिः, ४६-४८ गृत्समदः शौनकः दिए गए हैं। संस्कृत स्रोत पाठ और आयातित मेटाडेटा को सम्पादकीय अध्ययन सामग्री से अलग रखा गया है।Is Sukta mein 48 mantra hain. Imported record mein Rishi | translator = aur Devata ऋ. १-१० अकृष्टा माषाः, ११-२० सिकता निवावरी, २१-३० पृश्नियोऽजाः, ३१-४० अकृष्टमाषादयस्त्रयः, ४१-४५ भौमोऽत्रिः, ४६-४८ गृत्समदः शौनकः diye gaye hain. Sanskrit source text aur imported metadata ko editorial study layer se alag rakha gaya hai.

Quick Factsसंक्षिप्त तथ्यQuick Facts

Mandalaमण्डलMandala9
Suktaसूक्तSukta86
Mantrasमंत्रMantra48
RishiऋषिRishi| translator =| translator =| translator =
DevataदेवताDevataऋ. १-१० अकृष्टा माषाः, ११-२० सिकता निवावरी, २१-३० पृश्नियोऽजाः, ३१-४० अकृष्टमाषादयस्त्रयः, ४१-४५ भौमोऽत्रिः, ४६-४८ गृत्समदः शौनकःऋ. १-१० अकृष्टा माषाः, ११-२० सिकता निवावरी, २१-३० पृश्नियोऽजाः, ३१-४० अकृष्टमाषादयस्त्रयः, ४१-४५ भौमोऽत्रिः, ४६-४८ गृत्समदः शौनकःऋ. १-१० अकृष्टा माषाः, ११-२० सिकता निवावरी, २१-३० पृश्नियोऽजाः, ३१-४० अकृष्टमाषादयस्त्रयः, ४१-४५ भौमोऽत्रिः, ४६-४८ गृत्समदः शौनकः
Chandasछन्दChandasजगतीजगतीजगती
Reference formatसन्दर्भ प्रारूपReference FormatRV 9.86.1

RV 9.86.1

Mantra 1

प्र त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना । दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशमासते ॥१॥

RV 9.86.2

Mantra 2

प्र ते मदासो मदिरास आशवोऽसृक्षत रथ्यासो यथा पृथक् । धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः ॥२॥

RV 9.86.3

Mantra 3

अत्यो न हियानो अभि वाजमर्ष स्वर्वित्कोशं दिवो अद्रिमातरम् । वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे ॥३॥

RV 9.86.4

Mantra 4

प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन्पयसा धरीमणि । प्रान्तरृषय स्थाविरीरसृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ॥४॥

RV 9.86.5

Mantra 5

विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस्ते सतः परि यन्ति केतवः । व्यानशिः पवसे सोम धर्मभिः पतिर्विश्वस्य भुवनस्य राजसि ॥५॥

RV 9.86.6

Mantra 6

उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः । यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति ॥६॥

RV 9.86.7

Mantra 7

यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानामुप याति निष्कृतम् । सहस्रधारः परि कोशमर्षति वृषा पवित्रमत्येति रोरुवत् ॥७॥

RV 9.86.8

Mantra 8

राजा समुद्रं नद्यो वि गाहतेऽपामूर्मिं सचते सिन्धुषु श्रितः । अध्यस्थात्सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः ॥८॥

RV 9.86.9

Mantra 9

दिवो न सानु स्तनयन्नचिक्रदद्द्यौश्च यस्य पृथिवी च धर्मभिः । इन्द्रस्य सख्यं पवते विवेविदत्सोमः पुनानः कलशेषु सीदति ॥९॥

RV 9.86.10

Mantra 10

ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः । दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः ॥१०॥

RV 9.86.11

Mantra 11

अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः । हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ॥११॥

RV 9.86.12

Mantra 12

अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छति । अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा ॥१२॥

RV 9.86.13

Mantra 13

अयं मतवाञ्छकुनो यथा हितोऽव्ये ससार पवमान ऊर्मिणा । तव क्रत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते ॥१३॥

RV 9.86.14

Mantra 14

द्रापिं वसानो यजतो दिविस्पृशमन्तरिक्षप्रा भुवनेष्वर्पितः । स्वर्जज्ञानो नभसाभ्यक्रमीत्प्रत्नमस्य पितरमा विवासति ॥१४॥

RV 9.86.15

Mantra 15

सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमं व्यानशे । पदं यदस्य परमे व्योमन्यतो विश्वा अभि सं याति संयतः ॥१५॥

RV 9.86.16

Mantra 16

प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति संगिरम् । मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा ॥१६॥

RV 9.86.17

Mantra 17

प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्वक्रमुः । सोमं मनीषा अभ्यनूषत स्तुभोऽभि धेनवः पयसेमशिश्रयुः ॥१७॥

RV 9.86.18

Mantra 18

आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमानो अस्रिधम् । या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम् ॥१८॥

RV 9.86.19

Mantra 19

वृषा मतीनां पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः । क्राणा सिन्धूनां कलशाँ अवीवशदिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥१९॥

RV 9.86.20

Mantra 20

मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशाँ अचिक्रदत् । त्रितस्य नाम जनयन्मधु क्षरदिन्द्रस्य वायोः सख्याय कर्तवे ॥२०॥

RV 9.86.21

Mantra 21

अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोककृत् । अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥२१॥

RV 9.86.22

Mantra 22

पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ । सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतः सूर्यमारोहयो दिवि ॥२२॥

RV 9.86.23

Mantra 23

अद्रिभिः सुतः पवसे पवित्र आँ इन्दविन्द्रस्य जठरेष्वाविशन् । त्वं नृचक्षा अभवो विचक्षण सोम गोत्रमङ्गिरोभ्योऽवृणोरप ॥२३॥

RV 9.86.24

Mantra 24

त्वां सोम पवमानं स्वाध्योऽनु विप्रासो अमदन्नवस्यवः । त्वां सुपर्ण आभरद्दिवस्परीन्दो विश्वाभिर्मतिभिः परिष्कृतम् ॥२४॥

RV 9.86.25

Mantra 25

अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः । अपामुपस्थे अध्यायवः कविमृतस्य योना महिषा अहेषत ॥२५॥

RV 9.86.26

Mantra 26

इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन्सुपथानि यज्यवे । गाः कृण्वानो निर्णिजं हर्यतः कविरत्यो न क्रीळन्परि वारमर्षति ॥२६॥

RV 9.86.27

Mantra 27

असश्चतः शतधारा अभिश्रियो हरिं नवन्तेऽव ता उदन्युवः । क्षिपो मृजन्ति परि गोभिरावृतं तृतीये पृष्ठे अधि रोचने दिवः ॥२७॥

RV 9.86.28

Mantra 28

तवेमाः प्रजा दिव्यस्य रेतसस्त्वं विश्वस्य भुवनस्य राजसि । अथेदं विश्वं पवमान ते वशे त्वमिन्दो प्रथमो धामधा असि ॥२८॥

RV 9.86.29

Mantra 29

त्वं समुद्रो असि विश्ववित्कवे तवेमाः पञ्च प्रदिशो विधर्मणि । त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः ॥२९॥

RV 9.86.30

Mantra 30

त्वं पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे । त्वामुशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे ॥३०॥

RV 9.86.31

Mantra 31

प्र रेभ एत्यति वारमव्ययं वृषा वनेष्वव चक्रदद्धरिः । सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम् ॥३१॥

RV 9.86.32

Mantra 32

स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस्त्रिवृतं यथा विदे । नयन्नृतस्य प्रशिषो नवीयसीः पतिर्जनीनामुप याति निष्कृतम् ॥३२॥

RV 9.86.33

Mantra 33

राजा सिन्धूनां पवते पतिर्दिव ऋतस्य याति पथिभिः कनिक्रदत् । सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्नुपावसुः ॥३३॥

RV 9.86.34

Mantra 34

पवमान मह्यर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया । गभस्तिपूतो नृभिरद्रिभिः सुतो महे वाजाय धन्याय धन्वसि ॥३४॥

RV 9.86.35

Mantra 35

इषमूर्जं पवमानाभ्यर्षसि श्येनो न वंसु कलशेषु सीदसि । इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः ॥३५॥

RV 9.86.36

Mantra 36

सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम् । अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे ॥३६॥

RV 9.86.37

Mantra 37

ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः । तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ॥३७॥

RV 9.86.38

Mantra 38

त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि । स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे ॥३८॥

RV 9.86.39

Mantra 39

गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः । त्वं सुवीरो असि सोम विश्ववित्तं त्वा विप्रा उप गिरेम आसते ॥३९॥

RV 9.86.40

Mantra 40

उन्मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते । राजा पवित्ररथो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहत् ॥४०॥

RV 9.86.41

Mantra 41

स भन्दना उदियर्ति प्रजावतीर्विश्वायुर्विश्वाः सुभरा अहर्दिवि । ब्रह्म प्रजावद्रयिमश्वपस्त्यं पीत इन्दविन्द्रमस्मभ्यं याचतात् ॥४१॥

RV 9.86.42

Mantra 42

सो अग्रे अह्नां हरिर्हर्यतो मदः प्र चेतसा चेतयते अनु द्युभिः । द्वा जना यातयन्नन्तरीयते नरा च शंसं दैव्यं च धर्तरि ॥४२॥

RV 9.86.43

Mantra 43

अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते । सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृभ्णते ॥४३॥

RV 9.86.44

Mantra 44

विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति । अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीळन्नसरद्वृषा हरिः ॥४४॥

RV 9.86.45

Mantra 45

अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः । हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥४५॥

RV 9.86.46

Mantra 46

असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर्भुवनान्यर्षति । अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजमृग्मिणो ययुः ॥४६॥

RV 9.86.47

Mantra 47

प्र ते धारा अत्यण्वानि मेष्यः पुनानस्य संयतो यन्ति रंहयः । यद्गोभिरिन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि ॥४७॥

RV 9.86.48

Mantra 48

पवस्व सोम क्रतुविन्न उक्थ्योऽव्यो वारे परि धाव मधु प्रियम् । जहि विश्वान्रक्षस इन्दो अत्रिणो बृहद्वदेम विदथे सुवीराः ॥४८॥

Source Note

Yeh page educational aur devotional study ke liye Rigveda references present karta hai. Sanskrit mantra text Sanskrit Wikisource - Rigveda Sukta text ke recorded revision se attributed hai aur recorded reuse status Creative Commons Attribution-ShareAlike hai. Commentary aur modern translations source se import nahi kiye gaye hain. Unreviewed legacy meanings jaanbujhkar hidden hain. Agar aapko copyright ya attribution se judi koi dikkat dikhe, to humse sampark karein.

Technical Source Details

Content used: Sanskrit mantra text from the page poem section only; commentary and modern translations are excluded. Imported from Wikisource revision 324716. The import intentionally excludes Sayana commentary and page formatting. Rendered Wikisource page text was used because the raw revision poem exposed only 15 mantra markers while the rendered poem exposed 48.

Quick answers

Helpful Questions

What is RV 9.86?

RV 9.86 refers to Rigveda Mandala 9, Sukta 86. This page includes 48 mantras with references and anchor links for direct reading.

How do mantra anchor links work?

Each mantra section has an anchor such as #mantra-1 or #mantra-2. You can use the mantra buttons near the top of the page to jump directly to a specific mantra.

Where does the Sanskrit text come from?

The Sanskrit text on this page is attributed to Sanskrit Wikisource - Rigveda Sukta text with the listed reuse status. Translation and metadata layers are published only with their visible editorial review status.

Vikash Kumawat

Creator and maintainer

Vikash Kumawat

I maintain SanatanAdhyayan as a structured study space for readers who want to explore Vedas, Upanishads, Puranas, Itihasas, Darshanas, panchang ideas, and Vedic time concepts in a clear way.