Rigveda Suktaऋग्वेद सूक्तRigveda Sukta

Rigveda Mandala 9 Sukta 97ऋग्वेद मण्डल 9 सूक्त 97Rigveda Mandala 9 Sukta 97

Reading Guideपाठ मार्गदर्शिकाReading Guide

About RV 9.97RV 9.97 के बारे मेंRV 9.97 ke Baare Mein

This Sukta has 58 mantras. The imported record currently lists | translator = as Rishi and ऋषि- १-३ मैत्रावरुणिर्वसिष्ठः, ४-६ वासिष्ठ इन्द्रप्रमतिः, ७-९ वासिष्ठो वृषगणः, १०-१२ वासिष्ठो मन्युः*, १३-१५ वासिष्ठ उपमन्युः**, १६-१८वासिष्ठो व्याघ्रपाद्, १९-२१ वासिष्ठः शक्तिः, २२-२४ वासिष्ठः कर्णश्रुद्, २५-२७ वासिष्ठो मृळीकः, २८-३० वासिष्ठो वसुक्रः, ३१-४४ पराशरः शाक्त्यः, ४५-५८ कुत्स आङ्गिरसः as Devata. Sanskrit source text and imported metadata remain separate from any editorial study layer.इस सूक्त में 58 मंत्र हैं। आयातित रिकॉर्ड में ऋषि | translator = और देवता ऋषि- १-३ मैत्रावरुणिर्वसिष्ठः, ४-६ वासिष्ठ इन्द्रप्रमतिः, ७-९ वासिष्ठो वृषगणः, १०-१२ वासिष्ठो मन्युः*, १३-१५ वासिष्ठ उपमन्युः**, १६-१८वासिष्ठो व्याघ्रपाद्, १९-२१ वासिष्ठः शक्तिः, २२-२४ वासिष्ठः कर्णश्रुद्, २५-२७ वासिष्ठो मृळीकः, २८-३० वासिष्ठो वसुक्रः, ३१-४४ पराशरः शाक्त्यः, ४५-५८ कुत्स आङ्गिरसः दिए गए हैं। संस्कृत स्रोत पाठ और आयातित मेटाडेटा को सम्पादकीय अध्ययन सामग्री से अलग रखा गया है।Is Sukta mein 58 mantra hain. Imported record mein Rishi | translator = aur Devata ऋषि- १-३ मैत्रावरुणिर्वसिष्ठः, ४-६ वासिष्ठ इन्द्रप्रमतिः, ७-९ वासिष्ठो वृषगणः, १०-१२ वासिष्ठो मन्युः*, १३-१५ वासिष्ठ उपमन्युः**, १६-१८वासिष्ठो व्याघ्रपाद्, १९-२१ वासिष्ठः शक्तिः, २२-२४ वासिष्ठः कर्णश्रुद्, २५-२७ वासिष्ठो मृळीकः, २८-३० वासिष्ठो वसुक्रः, ३१-४४ पराशरः शाक्त्यः, ४५-५८ कुत्स आङ्गिरसः diye gaye hain. Sanskrit source text aur imported metadata ko editorial study layer se alag rakha gaya hai.

Quick Factsसंक्षिप्त तथ्यQuick Facts

Mandalaमण्डलMandala9
Suktaसूक्तSukta97
Mantrasमंत्रMantra58
RishiऋषिRishi| translator =| translator =| translator =
DevataदेवताDevataऋषि- १-३ मैत्रावरुणिर्वसिष्ठः, ४-६ वासिष्ठ इन्द्रप्रमतिः, ७-९ वासिष्ठो वृषगणः, १०-१२ वासिष्ठो मन्युः*, १३-१५ वासिष्ठ उपमन्युः**, १६-१८वासिष्ठो व्याघ्रपाद्, १९-२१ वासिष्ठः शक्तिः, २२-२४ वासिष्ठः कर्णश्रुद्, २५-२७ वासिष्ठो मृळीकः, २८-३० वासिष्ठो वसुक्रः, ३१-४४ पराशरः शाक्त्यः, ४५-५८ कुत्स आङ्गिरसःऋषि- १-३ मैत्रावरुणिर्वसिष्ठः, ४-६ वासिष्ठ इन्द्रप्रमतिः, ७-९ वासिष्ठो वृषगणः, १०-१२ वासिष्ठो मन्युः*, १३-१५ वासिष्ठ उपमन्युः**, १६-१८वासिष्ठो व्याघ्रपाद्, १९-२१ वासिष्ठः शक्तिः, २२-२४ वासिष्ठः कर्णश्रुद्, २५-२७ वासिष्ठो मृळीकः, २८-३० वासिष्ठो वसुक्रः, ३१-४४ पराशरः शाक्त्यः, ४५-५८ कुत्स आङ्गिरसःऋषि- १-३ मैत्रावरुणिर्वसिष्ठः, ४-६ वासिष्ठ इन्द्रप्रमतिः, ७-९ वासिष्ठो वृषगणः, १०-१२ वासिष्ठो मन्युः*, १३-१५ वासिष्ठ उपमन्युः**, १६-१८वासिष्ठो व्याघ्रपाद्, १९-२१ वासिष्ठः शक्तिः, २२-२४ वासिष्ठः कर्णश्रुद्, २५-२७ वासिष्ठो मृळीकः, २८-३० वासिष्ठो वसुक्रः, ३१-४४ पराशरः शाक्त्यः, ४५-५८ कुत्स आङ्गिरसः
Chandasछन्दChandasत्रिष्टुप्त्रिष्टुप्त्रिष्टुप्
Reference formatसन्दर्भ प्रारूपReference FormatRV 9.97.1

RV 9.97.1

Mantra 1

अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् । सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमान्ति होता ॥१॥

RV 9.97.2

Mantra 2

भद्रा वस्त्रा समन्या वसानो महान्कविर्निवचनानि शंसन् । आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ ॥२॥

RV 9.97.3

Mantra 3

समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे । अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥३॥

RV 9.97.4

Mantra 4

प्र गायताभ्यर्चाम देवान्सोमं हिनोत महते धनाय । स्वादुः पवाते अति वारमव्यमा सीदाति कलशं देवयुर्नः ॥४॥

RV 9.97.5

Mantra 5

इन्दुर्देवानामुप सख्यमायन्सहस्रधारः पवते मदाय । नृभि स्तवानो अनु धाम पूर्वमगन्निन्द्रं महते सौभगाय ॥५॥

RV 9.97.6

Mantra 6

स्तोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गच्छतु ते भराय । देवैर्याहि सरथं राधो अच्छा यूयं पात स्वस्तिभिः सदा नः ॥६॥

RV 9.97.7

Mantra 7

प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति । महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥७॥

RV 9.97.8

Mantra 8

प्र हंसासस्तृपलं मन्युमच्छामादस्तं वृषगणा अयासुः । आङ्गूष्यं पवमानं सखायो दुर्मर्षं साकं प्र वदन्ति वाणम् ॥८॥

RV 9.97.9

Mantra 9

स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तं मिमते न गावः । परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥९॥

RV 9.97.10

Mantra 10

इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय । हन्ति रक्षो बाधते पर्यरातीर्वरिवः कृण्वन्वृजनस्य राजा ॥१०॥

RV 9.97.11

Mantra 11

अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः । इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥११॥

RV 9.97.12

Mantra 12

अभि प्रियाणि पवते पुनानो देवो देवान्स्वेन रसेन पृञ्चन् । इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥१२॥

RV 9.97.13

Mantra 13

वृषा शोणो अभिकनिक्रदद्गा नदयन्नेति पृथिवीमुत द्याम् । इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचेतयन्नर्षति वाचमेमाम् ॥१३॥

RV 9.97.14

Mantra 14

रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम् । पवमानः संतनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः ॥१४॥

RV 9.97.15

Mantra 15

एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नैः । परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः ॥१५॥

RV 9.97.16

Mantra 16

जुष्ट्वी न इन्दो सुपथा सुगान्युरौ पवस्व वरिवांसि कृण्वन् । घनेव विष्वग्दुरितानि विघ्नन्नधि ष्णुना धन्व सानो अव्ये ॥१६॥

RV 9.97.17

Mantra 17

वृष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शंगयीं जीरदानुम् । स्तुकेव वीता धन्वा विचिन्वन्बन्धूँरिमाँ अवराँ इन्दो वायून् ॥१७॥

RV 9.97.18

Mantra 18

ग्रन्थिं न वि ष्य ग्रथितं पुनान ऋजुं च गातुं वृजिनं च सोम । अत्यो न क्रदो हरिरा सृजानो मर्यो देव धन्व पस्त्यावान् ॥१८॥

RV 9.97.19

Mantra 19

जुष्टो मदाय देवतात इन्दो परि ष्णुना धन्व सानो अव्ये । सहस्रधारः सुरभिरदब्धः परि स्रव वाजसातौ नृषह्ये ॥१९॥

RV 9.97.20

Mantra 20

अरश्मानो येऽरथा अयुक्ता अत्यासो न ससृजानास आजौ । एते शुक्रासो धन्वन्ति सोमा देवासस्ताँ उप याता पिबध्यै ॥२०॥

RV 9.97.21

Mantra 21

एवा न इन्दो अभि देववीतिं परि स्रव नभो अर्णश्चमूषु । सोमो अस्मभ्यं काम्यं बृहन्तं रयिं ददातु वीरवन्तमुग्रम् ॥२१॥

RV 9.97.22

Mantra 22

तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य वा धर्मणि क्षोरनीके । आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम् ॥२२॥

RV 9.97.23

Mantra 23

प्र दानुदो दिव्यो दानुपिन्व ऋतमृताय पवते सुमेधाः । धर्मा भुवद्वृजन्यस्य राजा प्र रश्मिभिर्दशभिर्भारि भूम ॥२३॥

RV 9.97.24

Mantra 24

पवित्रेभिः पवमानो नृचक्षा राजा देवानामुत मर्त्यानाम् । द्विता भुवद्रयिपती रयीणामृतं भरत्सुभृतं चार्विन्दुः ॥२४॥

RV 9.97.25

Mantra 25

अर्वाँ इव श्रवसे सातिमच्छेन्द्रस्य वायोरभि वीतिमर्ष । स नः सहस्रा बृहतीरिषो दा भवा सोम द्रविणोवित्पुनानः ॥२५॥

RV 9.97.26

Mantra 26

देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः । आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः ॥२६॥

RV 9.97.27

Mantra 27

एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः । महश्चिद्धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः ॥२७॥

RV 9.97.28

Mantra 28

अश्वो नो क्रदो वृषभिर्युजानः सिंहो न भीमो मनसो जवीयान् । अर्वाचीनैः पथिभिर्ये रजिष्ठा आ पवस्व सौमनसं न इन्दो ॥२८॥

RV 9.97.29

Mantra 29

शतं धारा देवजाता असृग्रन्सहस्रमेनाः कवयो मृजन्ति । इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य ॥२९॥

RV 9.97.30

Mantra 30

दिवो न सर्गा अससृग्रमह्नां राजा न मित्रं प्र मिनाति धीरः । पितुर्न पुत्रः क्रतुभिर्यतान आ पवस्व विशे अस्या अजीतिम् ॥३०॥

RV 9.97.31

Mantra 31

प्र ते धारा मधुमतीरसृग्रन्वारान्यत्पूतो अत्येष्यव्यान् । पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः ॥३१॥

RV 9.97.32

Mantra 32

कनिक्रददनु पन्थामृतस्य शुक्रो वि भास्यमृतस्य धाम । स इन्द्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभिः कवीनाम् ॥३२॥

RV 9.97.33

Mantra 33

दिव्यः सुपर्णोऽव चक्षि सोम पिन्वन्धाराः कर्मणा देववीतौ । एन्दो विश कलशं सोमधानं क्रन्दन्निहि सूर्यस्योप रश्मिम् ॥३३॥

RV 9.97.34

Mantra 34

तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् । गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः॥३४॥

RV 9.97.35

Mantra 35

सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः । सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ॥३५॥

RV 9.97.36

Mantra 36

एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति । इन्द्रमा विश बृहता रवेण वर्धया वाचं जनया पुरंधिम् ॥३६॥

RV 9.97.37

Mantra 37

आ जागृविर्विप्र ऋता मतीनां सोमः पुनानो असदच्चमूषु । सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥३७॥

RV 9.97.38

Mantra 38

स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः । प्रिया चिद्यस्य प्रियसास ऊती स तू धनं कारिणे न प्र यंसत् ॥३८॥

RV 9.97.39

Mantra 39

स वर्धिता वर्धनः पूयमानः सोमो मीढ्वाँ अभि नो ज्योतिषावीत् । येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमुष्णन् ॥३९॥

RV 9.97.40

Mantra 40

अक्रान्त्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा । वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः ॥४०॥

RV 9.97.41

Mantra 41

महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् । अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥४१॥

RV 9.97.42

Mantra 42

मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः । मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥४२॥

RV 9.97.43

Mantra 43

ऋजुः पवस्व वृजिनस्य हन्तापामीवां बाधमानो मृधश्च । अभिश्रीणन्पयः पयसाभि गोनामिन्द्रस्य त्वं तव वयं सखायः॥४३॥

RV 9.97.44

Mantra 44

मध्वः सूदं पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च । स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात् ॥४४॥

RV 9.97.45

Mantra 45

सोमः सुतो धारयात्यो न हित्वा सिन्धुर्न निम्नमभि वाज्यक्षाः । आ योनिं वन्यमसदत्पुनानः समिन्दुर्गोभिरसरत्समद्भिः ॥४५॥

RV 9.97.46

Mantra 46

एष स्य ते पवत इन्द्र सोमश्चमूषु धीर उशते तवस्वान् । स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयतामसर्जि ॥४६॥

RV 9.97.47

Mantra 47

एष प्रत्नेन वयसा पुनानस्तिरो वर्पांसि दुहितुर्दधानः । वसानः शर्म त्रिवरूथमप्सु होतेव याति समनेषु रेभन् ॥४७॥

RV 9.97.48

Mantra 48

नू नस्त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः। अप्सु स्वादिष्ठो मधुमाँ ऋतावा देवो न यः सविता सत्यमन्मा॥४८॥

RV 9.97.49

Mantra 49

अभि वायुं वीत्यर्षा गृणानोऽभि मित्रावरुणा पूयमानः । अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् ॥४९॥

RV 9.97.50

Mantra 50

अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः । अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥५०॥

RV 9.97.51

Mantra 51

अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः । अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ॥५१॥

RV 9.97.52

Mantra 52

अया पवा पवस्वैना वसूनि माँश्चत्व इन्दो सरसि प्र धन्व । ब्रध्नश्चिदत्र वातो न जूतः पुरुमेधश्चित्तकवे नरं दात् ॥५२॥

RV 9.97.53

Mantra 53

उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे । षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय ॥५३॥

RV 9.97.54

Mantra 54

महीमे अस्य वृषनाम शूषे माँश्चत्वे वा पृशने वा वधत्रे । अस्वापयन्निगुतः स्नेहयच्चापामित्राँ अपाचितो अचेतः ॥५४॥

RV 9.97.55

Mantra 55

सं त्री पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः । असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो ॥५५॥

RV 9.97.56

Mantra 56

एष विश्ववित्पवते मनीषी सोमो विश्वस्य भुवनस्य राजा । द्रप्साँ ईरयन्विदथेष्विन्दुर्वि वारमव्यं समयाति याति ॥५६॥

RV 9.97.57

Mantra 57

इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः । हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन ॥५७॥

RV 9.97.58

Mantra 58

त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥५८॥

Source Note

Yeh page educational aur devotional study ke liye Rigveda references present karta hai. Sanskrit mantra text Sanskrit Wikisource - Rigveda Sukta text ke recorded revision se attributed hai aur recorded reuse status Creative Commons Attribution-ShareAlike hai. Commentary aur modern translations source se import nahi kiye gaye hain. Unreviewed legacy meanings jaanbujhkar hidden hain. Agar aapko copyright ya attribution se judi koi dikkat dikhe, to humse sampark karein.

Technical Source Details

Content used: Sanskrit mantra text from the page poem section only; commentary and modern translations are excluded. Imported from Wikisource revision 402120. The import intentionally excludes Sayana commentary and page formatting.

Quick answers

Helpful Questions

What is RV 9.97?

RV 9.97 refers to Rigveda Mandala 9, Sukta 97. This page includes 58 mantras with references and anchor links for direct reading.

How do mantra anchor links work?

Each mantra section has an anchor such as #mantra-1 or #mantra-2. You can use the mantra buttons near the top of the page to jump directly to a specific mantra.

Where does the Sanskrit text come from?

The Sanskrit text on this page is attributed to Sanskrit Wikisource - Rigveda Sukta text with the listed reuse status. Translation and metadata layers are published only with their visible editorial review status.

Vikash Kumawat

Creator and maintainer

Vikash Kumawat

I maintain SanatanAdhyayan as a structured study space for readers who want to explore Vedas, Upanishads, Puranas, Itihasas, Darshanas, panchang ideas, and Vedic time concepts in a clear way.