Rigveda Suktaऋग्वेद सूक्तRigveda Sukta

Rigveda Mandala 1 Sukta 164ऋग्वेद मण्डल 1 सूक्त 164Rigveda Mandala 1 Sukta 164

Reading Guideपाठ मार्गदर्शिकाReading Guide

About RV 1.164RV 1.164 के बारे मेंRV 1.164 ke Baare Mein

This Sukta has 52 mantras. The imported record currently lists दीर्घतमा औचथ्यः as Rishi and १-४१ विश्वे देवाः, ४२ आद्यर्धर्चस्य वाक्, द्वितीयस्य आपः, ४३ आद्यर्धर्चस्य शकधूमः, द्वितीयस्य सोमः, ४४ केशिनः( अग्निः सूर्यो वायुश्च), ४५ वाक्, ४६ - ४७ सूर्यः, ४८ संवत्सरकालचक्रम्, ४९ सरस्वती, ५० साध्याः, ५१ सूर्यः, पर्जन्याग्नयो वा, ५२ सरस्वान्, सूर्यो वा as Devata. Sanskrit source text and imported metadata remain separate from any editorial study layer.इस सूक्त में 52 मंत्र हैं। आयातित रिकॉर्ड में ऋषि दीर्घतमा औचथ्यः और देवता १-४१ विश्वे देवाः, ४२ आद्यर्धर्चस्य वाक्, द्वितीयस्य आपः, ४३ आद्यर्धर्चस्य शकधूमः, द्वितीयस्य सोमः, ४४ केशिनः( अग्निः सूर्यो वायुश्च), ४५ वाक्, ४६ - ४७ सूर्यः, ४८ संवत्सरकालचक्रम्, ४९ सरस्वती, ५० साध्याः, ५१ सूर्यः, पर्जन्याग्नयो वा, ५२ सरस्वान्, सूर्यो वा दिए गए हैं। संस्कृत स्रोत पाठ और आयातित मेटाडेटा को सम्पादकीय अध्ययन सामग्री से अलग रखा गया है।Is Sukta mein 52 mantra hain. Imported record mein Rishi दीर्घतमा औचथ्यः aur Devata १-४१ विश्वे देवाः, ४२ आद्यर्धर्चस्य वाक्, द्वितीयस्य आपः, ४३ आद्यर्धर्चस्य शकधूमः, द्वितीयस्य सोमः, ४४ केशिनः( अग्निः सूर्यो वायुश्च), ४५ वाक्, ४६ - ४७ सूर्यः, ४८ संवत्सरकालचक्रम्, ४९ सरस्वती, ५० साध्याः, ५१ सूर्यः, पर्जन्याग्नयो वा, ५२ सरस्वान्, सूर्यो वा diye gaye hain. Sanskrit source text aur imported metadata ko editorial study layer se alag rakha gaya hai.

Quick Factsसंक्षिप्त तथ्यQuick Facts

Mandalaमण्डलMandala1
Suktaसूक्तSukta164
Mantrasमंत्रMantra52
RishiऋषिRishiदीर्घतमा औचथ्यःदीर्घतमा औचथ्यःदीर्घतमा औचथ्यः
DevataदेवताDevata१-४१ विश्वे देवाः, ४२ आद्यर्धर्चस्य वाक्, द्वितीयस्य आपः, ४३ आद्यर्धर्चस्य शकधूमः, द्वितीयस्य सोमः, ४४ केशिनः( अग्निः सूर्यो वायुश्च), ४५ वाक्, ४६ - ४७ सूर्यः, ४८ संवत्सरकालचक्रम्, ४९ सरस्वती, ५० साध्याः, ५१ सूर्यः, पर्जन्याग्नयो वा, ५२ सरस्वान्, सूर्यो वा१-४१ विश्वे देवाः, ४२ आद्यर्धर्चस्य वाक्, द्वितीयस्य आपः, ४३ आद्यर्धर्चस्य शकधूमः, द्वितीयस्य सोमः, ४४ केशिनः( अग्निः सूर्यो वायुश्च), ४५ वाक्, ४६ - ४७ सूर्यः, ४८ संवत्सरकालचक्रम्, ४९ सरस्वती, ५० साध्याः, ५१ सूर्यः, पर्जन्याग्नयो वा, ५२ सरस्वान्, सूर्यो वा१-४१ विश्वे देवाः, ४२ आद्यर्धर्चस्य वाक्, द्वितीयस्य आपः, ४३ आद्यर्धर्चस्य शकधूमः, द्वितीयस्य सोमः, ४४ केशिनः( अग्निः सूर्यो वायुश्च), ४५ वाक्, ४६ - ४७ सूर्यः, ४८ संवत्सरकालचक्रम्, ४९ सरस्वती, ५० साध्याः, ५१ सूर्यः, पर्जन्याग्नयो वा, ५२ सरस्वान्, सूर्यो वा
Chandasछन्दChandasत्रिष्टुप, १२, १५, २३, २९, ३६, ४१ जगती, ४२ प्रस्तारपंक्तिः, ५१ अनुष्टुप्त्रिष्टुप, १२, १५, २३, २९, ३६, ४१ जगती, ४२ प्रस्तारपंक्तिः, ५१ अनुष्टुप्त्रिष्टुप, १२, १५, २३, २९, ३६, ४१ जगती, ४२ प्रस्तारपंक्तिः, ५१ अनुष्टुप्
Reference formatसन्दर्भ प्रारूपReference FormatRV 1.164.1

RV 1.164.1

Mantra 1

अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः । तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥१॥

RV 1.164.2

Mantra 2

सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा । त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥२॥

RV 1.164.3

Mantra 3

इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः । सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ॥३॥

RV 1.164.4

Mantra 4

को ददर्श प्रथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति । भूम्या असुरसृगात्मा क्व स्वित्को विद्वांसमुप गात्प्रष्टुमेतत् ॥४॥

RV 1.164.5

Mantra 5

पाकः पृच्छामि मनसाविजानन्देवानामेना निहिता पदानि । वत्से बष्कयेऽधि सप्त तन्तून्वि तत्निरे कवय ओतवा उ ॥५॥

RV 1.164.6

Mantra 6

अचिकित्वाञ्चिकितुषश्चिदत्र कवीन्पृच्छामि विद्मने न विद्वान् । वि यस्तस्तम्भ षळिमा रजांस्यजस्य रूपे किमपि स्विदेकम् ॥६॥

RV 1.164.7

Mantra 7

इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं वेः । शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापुः ॥७॥

RV 1.164.8

Mantra 8

माता पितरमृत आ बभाज धीत्यग्रे मनसा सं हि जग्मे । सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ॥८॥

RV 1.164.9

Mantra 9

युक्ता मातासीद्धुरि दक्षिणाया अतिष्ठद्गर्भो वृजनीष्वन्तः । अमीमेद्वत्सो अनु गामपश्यद्विश्वरूप्यं त्रिषु योजनेषु ॥९॥

RV 1.164.10

Mantra 10

तिस्रो मातॄस्त्रीन्पितॄन्बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव ग्लापयन्ति । मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचमविश्वमिन्वाम् ॥१०॥

RV 1.164.11

Mantra 11

द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य । आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥११॥

RV 1.164.12

Mantra 12

पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् । अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम् ॥१२॥

RV 1.164.13

Mantra 13

पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा । तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः ॥१३॥

RV 1.164.14

Mantra 14

सनेमि चक्रमजरं वि वावृत उत्तानायां दश युक्ता वहन्ति । सूर्यस्य चक्षू रजसैत्यावृतं तस्मिन्नार्पिता भुवनानि विश्वा ॥१४॥

RV 1.164.15

Mantra 15

साकंजानां सप्तथमाहुरेकजं षळिद्यमा ऋषयो देवजा इति । तेषामिष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥१५॥

RV 1.164.16

Mantra 16

स्त्रियः सतीस्ताँ उ मे पुंस आहुः पश्यदक्षण्वान्न वि चेतदन्धः । कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत् ॥१६॥

RV 1.164.17

Mantra 17

अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात् । सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अन्तः ॥१७॥

RV 1.164.18

Mantra 18

अवः परेण पितरं यो अस्यानुवेद पर एनावरेण । कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि प्रजातम् ॥१८॥

RV 1.164.19

Mantra 19

ये अर्वाञ्चस्ताँ उ पराच आहुर्ये पराञ्चस्ताँ उ अर्वाच आहुः । इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥१९॥

RV 1.164.20

Mantra 20

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभि चाकशीति ॥२०॥

RV 1.164.21

Mantra 21

यत्रा सुपर्णा अमृतस्य भागमनिमेषं विदथाभिस्वरन्ति । इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥२१॥

RV 1.164.22

Mantra 22

यस्मिन्वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे । तस्येदाहुः पिप्पलं स्वाद्वग्रे तन्नोन्नशद्यः पितरं न वेद ॥२२॥

RV 1.164.23

Mantra 23

यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत । यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥२३॥

RV 1.164.24

Mantra 24

गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् । वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥२४॥

RV 1.164.25

Mantra 25

जगता सिन्धुं दिव्यस्तभायद्रथंतरे सूर्यं पर्यपश्यत् । गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा ॥२५॥

RV 1.164.26

Mantra 26

उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् । श्रेष्ठं सवं सविता साविषन्नोऽभीद्धो घर्मस्तदु षु प्र वोचम् ॥२६॥

RV 1.164.27

Mantra 27

हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात् । दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥२७॥

RV 1.164.28

Mantra 28

गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन्मातवा उ । सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥२८॥

RV 1.164.29

Mantra 29

अयं स शिङ्क्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता । सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद्भवन्ती प्रति वव्रिमौहत ॥२९॥

RV 1.164.30

Mantra 30

अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम् । जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः ॥३०॥

RV 1.164.31

Mantra 31

अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् । स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥३१॥

RV 1.164.32

Mantra 32

य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन्नु तस्मात् । स मातुर्योना परिवीतो अन्तर्बहुप्रजा निरृतिमा विवेश ॥३२॥

RV 1.164.33

Mantra 33

द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम् । उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात् ॥३३॥

RV 1.164.34

Mantra 34

पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥३४॥

RV 1.164.35

Mantra 35

इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः । अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥३५॥

RV 1.164.36

Mantra 36

सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि । ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥३६॥

RV 1.164.37

Mantra 37

न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि । यदा मागन्प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः ॥३७॥

RV 1.164.38

Mantra 38

अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः । ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥३८॥

RV 1.164.39

Mantra 39

ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥३९॥

RV 1.164.40

Mantra 40

सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम । अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥४०॥

RV 1.164.41

Mantra 41

गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥४१॥

RV 1.164.42

Mantra 42

तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश्चतस्रः । ततः क्षरत्यक्षरं तद्विश्वमुप जीवति ॥४२॥

RV 1.164.43

Mantra 43

शकमयं धूममारादपश्यं विषूवता पर एनावरेण । उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् ॥४३॥

RV 1.164.44

Mantra 44

त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् । विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥४४॥

RV 1.164.45

Mantra 45

चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥४५॥

RV 1.164.46

Mantra 46

इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥४६॥

RV 1.164.47

Mantra 47

कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति । त आववृत्रन्सदनादृतस्यादिद्घृतेन पृथिवी व्युद्यते ॥४७॥

RV 1.164.48

Mantra 48

द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत । तस्मिन्साकं त्रिशता न शङ्कवोऽर्पिताः षष्टिर्न चलाचलासः ॥४८॥

RV 1.164.49

Mantra 49

यस्ते स्तनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि । यो रत्नधा वसुविद्यः सुदत्रः सरस्वति तमिह धातवे कः ॥४९॥

RV 1.164.50

Mantra 50

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥५०॥

RV 1.164.51

Mantra 51

समानमेतदुदकमुच्चैत्यव चाहभिः । भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः ॥५१॥

RV 1.164.52

Mantra 52

दिव्यं सुपर्णं वायसं बृहन्तमपां गर्भं दर्शतमोषधीनाम् । अभीपतो वृष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ॥५२॥

Source Note

Yeh page educational aur devotional study ke liye Rigveda references present karta hai. Sanskrit mantra text Sanskrit Wikisource - Rigveda Sukta text ke recorded revision se attributed hai aur recorded reuse status Creative Commons Attribution-ShareAlike hai. Commentary aur modern translations source se import nahi kiye gaye hain. Unreviewed legacy meanings jaanbujhkar hidden hain. Agar aapko copyright ya attribution se judi koi dikkat dikhe, to humse sampark karein.

Technical Source Details

Content used: Sanskrit mantra text from the page poem section only; commentary and modern translations are excluded. Imported from Wikisource revision 402071. The import intentionally excludes Sayana commentary and page formatting.

Quick answers

Helpful Questions

What is RV 1.164?

RV 1.164 refers to Rigveda Mandala 1, Sukta 164. This page includes 52 mantras with references and anchor links for direct reading.

How do mantra anchor links work?

Each mantra section has an anchor such as #mantra-1 or #mantra-2. You can use the mantra buttons near the top of the page to jump directly to a specific mantra.

Where does the Sanskrit text come from?

The Sanskrit text on this page is attributed to Sanskrit Wikisource - Rigveda Sukta text with the listed reuse status. Translation and metadata layers are published only with their visible editorial review status.

Vikash Kumawat

Creator and maintainer

Vikash Kumawat

I maintain SanatanAdhyayan as a structured study space for readers who want to explore Vedas, Upanishads, Puranas, Itihasas, Darshanas, panchang ideas, and Vedic time concepts in a clear way.